________________ // 116 // // 117 // // 118 // अविनयवननीरं दोषदावाग्निवायु, विषयकमलभानुकीर्तिचन्द्रोपरागम् / परिहरत सुदूराद् दुर्जनानाङ्कुसङ्गं, भणति च मुनिमुक्तिः श्रेयसे सज्जनानाम् हिमति विनयक) शुक्रति प्रीतिकुञ्ज, कृपणति परकार्ये वज्रति क्षेत्रशैले। समिधति रिपुवह्नौ कन्दति क्लेशभूमौ, खलजनसहवासः श्वभ्रवासो विमुच्यः कीर्तिः स्फूर्जति शान्तिकान्तिधृतिभी राजत्यसौ भूतले, रागद्वेषमहारिजिन्मुनिरिव स्वातन्त्र्यमाहिण्डते। मानाचें लभते मणीव शिरसा धार्यः सतां वो भवेदक्षाश्वोज्जयपौरुषोत्तमजनः स्वर्गेऽपि संस्तूयते आत्मानकुपथन्नयत्यघततिम्बध्नाति सूतेऽयशश्वाप्नोत्यार्यजनेषु निन्दनमतो यातीह हास्यास्पदम् / क्लेशानृच्छति विध्यति स्मरशरैर्मानं विलुम्पत्यलम्, जन्तुश्चेन्द्रियवैरिपाणिपुटगः स्यादस्य मुक्तिः कुतः जिह्वा धावति चैकतो रसकृते रूपाय नेत्रे तथा, नासा गन्धकृते श्रुती रखकृते चेतोऽखिले भृङ्गति / लौल्याल्लोलमती रसेषु सहतेऽनर्थाननेकान् भृशम्, दुष्टाक्षारिवशङ्गतो हत इह प्रायो जनः सर्वतः दृष्ट्वा चात्र सुधीविचारप्रगतिश्चाक्षव्रर्मोहितान्, सारङ्गान् भ्रमरांस्तथा च शलभान्मीनान् गतासून्भृशम् / विश्वप्राणिमनःप्रभेदजनकं दुःखस्य मूलन्तथा, चाक्षवातमलद्ध्यवीर्यमतुलं स्वाधीनतामञ्चति // 119 // // 120 // // 121 // 250