________________ नो दोषांश्च गुणान् वदन्ति शतशः प्रख्यापयन्त्यादरादातन्वन्ति यशः परर्द्धिनिचये तुष्यन्ति भृशं हृदि / अन्यापत्सु परां शुचं विदधते श्लाघां न नैजीङ्कदा, कुर्वन्तीह चलन्ती नोऽकृतिपथे सौजन्यवानुगा // 108 // सिद्धान्तार्थमतिर्वरान्वयभवः कन्दर्पतुल्याकृतिः, स्फूर्जदेहनवीनयौवनभरो यक्षेशकोषेन्दिरः।। कान्ताऽपत्यसुमित्रबान्धवजनै त्याश्वदन्तावलैर्युक्तोऽप्यत्र नरो न चेत्सुजनता मण्याञ्चिताहिंप्रथः // 109 // सौजन्यञ्जनतापहारिविपुलामूर्धाच्छचूडामणिः; सौजन्यम्मुदमादधाति हृदये प्रत्यर्थिनामुत्तमाम् / सौजन्ये गुणराशयः पदमलङ्कुर्वन्ति यात्वा दिशः, सौजन्योत्तममातरं श्रयत भोः स्वप्नेऽपि नो भीर्यतः // 110 // विदधति गुणिसङ्गं ये पुमांसः पुमांसो, न खलपथमतयस्ते भवन्तो भवन्ति। परहितगतयस्ते साधु धर्मम्भजन्ते, न च जनिमतिरम्याम्मोघयन्त्यत्र जातु अतिमलिनकचित्तं क्षालयन्त्यत्र येज्ञाः, सुगुणिवसतिनारैनिनो ध्यानिनस्ते सुजलघटसहस्ररेति शुद्धिं न देहो, तनुगत इव रोगो बाह्यलेपैरनेकैः॥ 112 // वृषमथ गतकम्पस्तृष्णकश्च सुनीतिम्, प्रतनुप्रतिभदेही काव्यमज्ञो हि शास्त्रम् शमदमपथशून्यः सत्तपो वाञ्छतीह, गुणिजनशुभसङ्गं शर्म यो ना विमुच्य हरति कुमतिजालम्मोहमालाम्भिनत्ति, दहति हृदयशल्यं लाति सौख्यम् विशिष्टम् / वितरति दिशि कीर्ति हन्ति कौसङ्गदोषं, तनुरपि गुणिसङ्गः स्वर्गमोक्षैकहेतुः गुणिजनसहवासी नानयस्थानहासी, भवति वितथभाषी न कदा सत्यभाषी। सकलसुगुणराशिविश्वजीवात्मकाशी, दिनमणिरिव लोके भाति मालिन्यनाशी // 115 // 250