________________ // 102 // // 103 / / // 104 // लोभो धर्मपलाशिने सुरपतेर्दम्भोलिकल्पोऽथवा, लोभो मोहनरेशदक्षसचिवः क्रोधाग्निवायूपमः / लोभः कीर्तिगभस्तिसहुप्रतिभः क्रीडास्पदं वै कलेरापत्सिन्धुरनन्तदोषभरितो लोभः परित्यज्यताम् दम्भकोधकषायवैरनिगमे दुःखौघभस्मोच्चये, निर्यन्निन्द्ययश:सुधूमपटले वित्तेन्धनैर्दीपिते / मित्रे मोहसमीरकेऽतिनिपुणे शीघ्रञ्च वर्षेधितो, लोभाग्नौ शलभायते गुणगणो नामाऽपि तस्येह नो पीयूषाशनपादपः सुरगवी चिन्तामणिर्भासुरः, ऋद्धिः सिद्धिरनन्तभूतिनिधयो निर्वाणनाकश्रियः / तद्गेहाजिरमाश्रयन्ति मुदिता आहूतिधर्मं विना, सन्तोषामृतपानमग्नमनसो ये सन्ति पुण्यार्थिनः सर्पव्यालविषाभदस्युप्रमुखैः संक्षोभ्यमाणा अपि, . वाग्बाणैर्हदि ताडिता अपि खलानामिद्धशिष्टिम्पुषाम् / द्रोहे वाचरिते सुमूढमतिभिः सापत्नसिंहैरथ, . दौर्जन्यं विधुरेऽपि सुज्ञपुरुषा नो कुर्वते कुर्वते सौजन्यकुरुते यशो विघटयत्यापनदीपूरकं स्वश्रेयो विदधाति हन्ति कुनयं पुष्णाति प्रीतिम्पराम् / भिन्तेऽतथ्यतरूञ्जहाति कुपथं सङ्कारयत्यादरं, दत्ते मानमनल्पमुत्प्रथयति ख्यातिकुलस्याद्भुताम् सौजन्यं वहताम्वरं विभवताऽभावो वरं क्लेशता, चौर्यासत्यकुनीतिलब्धकमला सौख्यं तथा नो वरम् / कार्यश्चारु सुशोभते जनिजुषां स्वभावजम्मूर्तिषु, हास्यस्थानमशोभनञ्च विरसं स्थौल्यं विकारोद्भवम् 255 // 105 // // 106 // // 107 //