________________ विश्रभ्भभावो न च तेषु केषां शङ्कास्पदं यन्ति पदे पदे ते। निघ्नन्ति हा सौम्यमनोऽभिलाषानन्तःप्रविश्योग्रशरा इवात्र // 94 // ते वीक्षमाणा अपि कष्टराशि त्यजन्ति मायां न च पापशीलाः / यष्टिप्रहारैरपि ताड्यमाना मुञ्चन्ति लौल्यं न हि सारमेयाः // 95 // भद्रप्रसूतौ ननु वन्ध्यकल्पां सत्योल्लसच्छाखिकुठारकल्पाम्। . दौर्गत्यदानाढ्यरमासहस्त्री सेवेत मायां न च जातु विज्ञः // 96 // . मत्स्यान् बका इव जनान् परिवञ्चयन्ति / मायाविनः खलधियो मधुरैर्वचोभिः। / सौहार्दभूरुहवनज्वलदग्नितुल्याः कष्टप्रदा इह परे नरकार्तिभाजः // 97 // ते देहिनां शठधियो भुजगीव जीवश्चाश्रित्य जिह्मपदवीम्परिनाशयन्ति। दम्भाध्वना प्रतिपदं प्रतियन्ति मूढा दुष्टाशयास्तदपि तां न च हापयन्ति सिंहव्याघ्रभयं विशन्ति गहनं यान्ति प्रदेशान्तरम् / गाहन्ते जलधिकृषि विदधते कष्टान्सहन्ते बहून् / राजानकुनयाश्रयन्धनपति नम्रा भजन्ते तथा। प्राणानिष्टतमांत्यजन्ति सहसा लोभाञ्चिताः प्राणिनः . // 99 // धर्म गौरवकीर्तिमानप्रमुखान् लोभी गुणान्मुञ्चति नाचारश्च विवेकमन्वयमपि प्रोद्वीक्षते वाच्यताम् / लोभोद्विग्नमना भ्रमत्यनुदिनं श्वेवात्र चेतस्ततो नो पुण्यङ्कुरुते न चोत्तमजनैर्गोष्ठीन्तथा हा हतः // 100 // शुष्यत्तालुपुटः सुधर्मपृषतान्धाराभिरालिङ्गितो, ग्रीष्मे प्रावृषि हन्त पङ्ककलिते मार्गे पतन् भूरिशः / शीतेऽङ्गानि रदान् धनेहधिषणः प्राकम्पयञ्चालयन्, विश्रामं लभते मनाक् न च सुखम्प्राप्नोति धिक् लोभिनम् / / 101 // 254