________________ // 87 // // 88 // // 89 // मानम्मुञ्चत मुञ्चतात्र भविनो मानः सतां दूषणम् मानम्मा कुरुताश्रितोत्तमपदा मानो विपत्पोषणम् / मानम्माश्रयतामृतादरधियो मानो रमामोषणम् मानम्माऽन्वयनाशनं विदधत त्वज्ञानिनाम्भूषणम् मानात्कीर्तिरपैति दूरमखिला नश्यन्ति ताः सम्पदश्चास्मिन् शिष्टवचः पदं न कुरुते तप्तायसि ह्यम्बुवत् / मानेनैव विनाशमाप सकुलो लङ्काधिपो रावणः, प्रज्ञानेत्रसुतोऽपि तेन निधनं नीतो न कि योधनः ? वैयात्योन्नतसौधरक्षणपटुश्चाज्ञानवेदीस्थितः सौजन्याध्वविलोपिवृत्तसुषमो मायादिरङ्गाञ्चितः / बाह्याभ्यन्तरदायदम्भकलितः काठिन्यदोषाचलो मानस्तम्भ इहात्मभूतिमतिभिः प्रोन्मूलमुन्मूल्यताम् क्षोभम्भूरि सतां हदि प्रजनयन् विध्वंसयन्मार्दवम् . प्रौचित्यं खलु खण्डयन् घनघटां मूर्च्छनभस्वानिव / वैनेयं वनवीथिकां सुदलयन् धृष्टः करीवातिदो. मानः कीर्तिहरः क्षमाऽवनिचरैः कार्यः कदा नोत्तमैः // 90 // मानोतुङ्गमहीरुहाश्रयवतां यावन्न पातो भवेत् तावच्चैव सुमुच्यतां सुमतिभिस्तापो न भूयो यतः / दग्धे वा मुषिते गृहे सुखकरे प्रत्युद्यमः कीदृशशैवं साधु विविच्य साधुपुरुषैरीहाऽत्र कार्या न वै // 91 // आश्रित्य मायाङ्किल ये विमूढा दैनन्दिनं वञ्चनमाचरन्ति। स्वर्गापवर्गहिकसौख्यलब्ध्या मूढास्त एव प्रतिवञ्च्यतेऽत्र // 92 // माया न कार्या विविधैरुपायैः साऽनर्थहेतुस्त्विह कत्तुरेव / आशीविषास्ये ददतः कराग्रङ्कीनाशगेहं न च दूरमस्ति // 93 // 253