________________ // 81 // . // 82 // // 83 // कालुष्यञ्जनयत्यलन्तुदयते लोकान् वृथा तप्यति नेत्रे घूर्णयति ध्रुवौ विकुरुते रक्तीकरोत्याननम् / नासां मोटयति ब्रवीति कठिनम् दन्तान् पिनष्टि त्वथ खिद्यन्कम्पयते शरीरमथवा क्रोधी विधत्ते न किम् क्रोधावेगविलुप्तबुद्धिविषयो भिन्तेऽखिलं सत्पथं तापं सन्तनुते छिनत्ति सखितामुन्मूलयत्यार्जवम्। कीर्तिङ्कृन्तति लुम्पतें शुभगति द्वेषम्प्रसूतेऽखिलैः दुर्बुद्धिञ्जनयन्नसौ कुगतिदो मन्युः सदा मुंच्यताम् अभ्रं वायुरिवानलो घनवनकूटनि दम्भोलिव च्चञ्चत्कैरविणीम्मतङ्गज इव ध्वान्तं रखीवायुषम् / मिथ्यावाद इवान्वयङ्कुतनयः स्वर्भानुरिन्दोःकलां तद्वन्मन्युमुखो निहन्ति निखिलं स्वेष्टन्ततस्त्यज्यताम् क्रोधः क्रोधिनमेव हन्त दहति क्रोधो रिपुर्नापरः शम्यन्तर्व्वलनस्तमेव जलधिमौर्वो विषम्भोगिनम् / मन्त्राकीलितमेव मन्युयमराट् दोषेभविन्ध्याचलः तत्सङ्गः शिवमिच्छुभिर्न च कदा कार्यः कले: कारणम् नो प्रीतिः सुमतिर्दया सुजनता मैत्री यशो नीतिता, वात्सल्यं मधुरं वचश्च हितता कौलिन्यमानम्रता / नो विद्या न च सारमा न च कला नान्ये गुणाः सुन्दरा; वासङ्क्रोधिनि मानवे विदधते मुञ्चन्ति तन्दूरतः क्रोधो हन्त पिशाच एव नितराक्रोधो विषन्दुर्धरम् क्रोधो नीच इवोत्तमगुणगणं हन्ति त्वरा भूतले। कर्तव्याध्वनदीरयो वृषरवे राहुग्रह: कौफल: क्रोधस्त्याज्य इहाशु सज्जननरैः शान्तिः परा सेव्यताम् // 84 // // 85 // // 86 / / 250