________________ स्फूर्जच्छीलतनुत्रधारिपुरुषाः संयान्ति चेत्कुत्रचित् कीलालत्यनलों रिपुः स्वजनति व्यालस्तुरङ्गायते / सिंहो जम्बुकति त्विभो हरिणति क्रोडो बिडालायते, तेषाम्ब्रह्मजुषाङ्कृतेऽखिलजगन्मित्रायते भावतः! // 71 / / दुःखस्य मूलम्ममतानिधान-चिन्ताकस्चार्जनरक्षणेऽपि / लोभाग्निवायुर्बहुतापकारी त्याज्यस्ततो वस्तुपरिग्रहोऽत्र // 72 // सन्तोषपीयूषसुखापहारी निर्वाणपू:सौधगतिप्रघाती / मिथ्यागवीपोषणतस्करेशः श्रेयोऽभिकामैः परिहार्य एषः // 73 // नीत्यम्बुजालौ तुहिनप्रपातो, लोभाम्बुधिवर्द्धनयामिनीशः / धर्माध्वनः प्राप्तिमहान्तरायो नातोऽस्य लीप्सा मनसाऽपि कार्या 74 परिग्रहदोषनदीप्रवाहे, कीटादिवद्वीचिशतैरजस्रम् / विताड्यमानाः परियन्ति पारं, दैवेन ते क्लेशमलं सहन्तः // 75 // शान्तेविपक्षस्त्वधृतेः सखा नु मोहस्य वेदी दुरितस्य खानिः / कुध्यानवृत्ते भ्रमिवाटिकाऽसौ हेतुः कथं स्यादिह सद्गतीयः॥ 76 // जन्तुर्धनष्टशतैरसत्यैस्तूपार्जयत्यत्र विलोभवृत्तिः / कुर्वन्ति भोगञ्च परे मुधाऽसौ, पापानि भूयांसि करोति मूढः // 77 // कृपीटयोनिर्गिरिकूटकाष्ठैर्वागम्पतिस्तृप्यति नो तदोघैः / यथा तथाऽर्थार्जनशीलबुद्धिः प्राणात्यये तोषमुपैति नोऽत्र // 78 // आरामवापीगजकेलिलीलो ध्यानाग्निभाश्रावणमेघकल्पः / सत्सङ्गजीमूतसमीरणाभो विज्ञैर्विमुच्योऽत्र परिग्रहोऽतः // 79 // क्रोधध्वान्तनिमग्नमानसगतिमैरेयपायीव ना नो तथ्यं वितथं हितं न च नयं संवीक्षते नो गुरून् / नो वाणीं शृणुते हितामपि वरां शिष्टोपदिष्टां खलः दन्तीवात्र विचेष्टते सुजनताऽऽरामच्छिदे केवलम् // 8 // . 251