________________ संसदि लोके सुरपुरभागे बान्धवमित्रविपक्षसमूहे। . कीर्तिलताफलखादनशीलैः स्तेयविचारपथोऽभजनीयः // 63 // दुर्मतिहेतुरघौघनिदानं बाहुलखेदप्रदानप्रवीणः / भूतलगौरववाञ्छुकमत्यै स्तेयविचारपथोऽमननीयः . // 64 // राजभटैः पथि निर्दयपूर्वं स्तेयप्रवृत्तिनरो वधभूमौ / . नीयत एव सुताडनयाम्यैः पश्यत पश्यत लोत्रफलानि // 65 // स्तेयफलं खलु साधु विविच्य तत्र कदाऽपि न धीः करणीया। पारकवस्तु भवेल्लघु भुरि ग्राह्यमदत्तमहो न च जातु // 66 // मानख्यातियशोरमागुणगणश्लाघापदम्पावनं, धर्मारामसुपुण्यशाखि जलदो वंशाब्जहेलिप्रभः / प्रत्यङ्गद्युतिहेतुकेतुरखिलप्रद्वेषिणामापदां,, शीलङ्कायविभूषणं नरवरैर्धार्यं हृदा प्रत्यहम् // 67 // विश्वासायतनम्मनोभवबलप्रध्वंसि लेखेडितमर्चास्थानमरिष्वपि स्फुटमथ व्याघ्राहिभीनिर्भयम् / शीलं येन कुबुद्धिना यदि हतं हाहाऽखिलं हारितं चारित्रान्वयकीर्तिगौरवपथे दत्तोऽञ्जलिधिग् जनिम् . // 68 // शीलापीडविभूषिताङ्गसुषमासन्धारिणाम्प्राणिनां, साम्राज्यम्भुवि जायते च भवतः पूजाप्रतिष्ठे तथा / वेधाऽलङ्किल पूजयन्ति मनुजा देवानिव स्वालयेष्वेतान्भक्तिरसाञ्चिता गुरुधिया सम्भावयन्त्यात्मनि // 69 // पापं नश्यति वर्द्धते वृषततिश्चाढौकते या स्वयम्, कीर्तिर्याति दिगन्तमेति विलयं वैरी कुधीः कम्पते / आलिङ्गन्ति सुखानि यन्ति विपदो जागर्ति धीः सन्मता धत्ते शीलमनुत्तमं हि सुकृती यस्तस्य शान्ता दिशः 250 // 70 //