________________ विधत्ते पूज्यत्वञ्जगति सुतरं लोकजलधिं कृपाऽविष्टश्चेतो वितरति वराम्मोक्षपदवीम् / // 51 // सत्यं वाक्यं सत्यधामाभिदायि, सर्वापत्तिच्छेदकं विद्यतेऽत्र / / सत्याभाषी पूज्यते प्राणिवृन्दैः, सत्याचारी स्तूयते देवसधैः / / 52 // विश्रम्भौकः सत्यशाली दयालुः, कीर्तिर्लक्ष्मी: शेमुषी ऋद्धिसिद्धी / कान्तेवैनं सस्पृहं प्रेमभावा-दालिङ्गत्यासेवते सत्यवन्तम् // 53 // सत्यः पन्थाः सर्वतो भद्हेतुः सत्या वाणी भद्रमालाम्प्रदत्ते / सत्याचारः सत्यधामानुगामी, सत्योद्योगः सत्फलः सर्वमान्यः 54 सत्याधाराः पाण्डवा विश्ववन्द्या जाता भीष्मः सत्यसन्धस्तथैव। .. सत्यान्मौलौ पुष्पवृष्टिर्वराऽभूद्देवैः क्षिप्ता भूभुजश्चन्द्रनाम्नः // 55 // वक्त्रे येषां सत्यवाग् भाति नित्यं, वन्दन्ते तान् निर्जराः कीर्तयन्तः / भी! येषां नैव तेभ्यः परेषां, राजन्ते ते सत्यवक्त्राः पवित्राः // 56 // तुर्यैर्वौ व शक्तो विधाता जिह्वाव्यूहैर्वासुकिनागराजः / सत्यं सत्यं क्रौञ्चदारी रसास्यैर्वक्तुं भूमौ के परे चैकवक्त्राः // 57 // बाधा केभ्यो नोऽत्र कुत्रापि यातुहिंसादिभ्यः सत्यवक्तुर्नरस्य / प्रीत्या सर्वे चाह्वयन्तीव तङ्कौ मित्रं पुत्रं भ्रातरं बन्धुवर्गाः // 58 // नोऽत्र कदाऽपि धनम्परकीयं ग्राह्यमनल्पमथो लघु चापि। . कीर्तिविनाशकहेतु विघाति गेहंगतङ्किल भूमिगतं वा // 59 // लोष्ठसमानमलगुणवन्तः काञ्चनरत्नवराम्बरराशिम् / नेत्रगतं ह्यपि कुत्र विना ते चाददते नहि शासनमार्याः // 60 / / स्वीकुरुते नहि शुद्धमनीषी नीतिपरोऽपरलोकविचारी / शासनमार्गमुल्लङ्घ्य शिवेहः सूचिप्रमाणमहो परवस्तु // 61 // गौरवशाखिप्रकाण्डकुठारो वंशमहीधरभेदनशम्बः / भावनभूरुहवृन्ददवाग्निः स्तेयविचारपथस्त्यजनीयः // 62 // / 240