________________ // 40 // . मूर्धन्यं सर्वशक्तेरिह भुवि मनुजा आश्रयध्वं सुसङ्घम् . सङ्घ शक्तिः कलौ वायियमपि भणितिर्जीवताद्दीर्घकालम् // 45 // अहिंसा का चेयं प्रथममितिवादः समजनि कदाचित्प्रज्ञानां सदसि प्रतिभादीप्तमनसाम् / तदा प्रोचे तज्ज्ञै रहितमिह केषाञ्जनिजुषां। न कार्यं ज्ञेयैषा जिनपप्रथिता सर्वजननी . अहिंसैको धर्मः परमरमणीयः शिवमयो. जनन्याः प्रोत्सङ्गे त्विव च तनया भीतिरहिताः / रमन्ते वै यस्मिन् मुदितमनसः सत्त्वनिवहा अतस्तस्मिन् भव्याः कुरुत कुरुत स्वात्मप्रगतिम् // 47 // ध्वनन्नीरापूर्णा जलदपटली पङ्कशुचये , सुधाऽऽहारागारप्रवरकमलासौख्यजनिका / गदासिच्छिनाङ्गामृतकसरसी प्रीतिदयिता अहिंसैका पाल्या परमसुखदा शुद्धमतिभिः // 48 // कदा भानुर्भानुर्वरुणककुभञ्चोदयमयेज्- . ज्वलज्ज्वालादीप्तः श्रयतु दहनः शैत्यमथवा। जले क्वापि ग्रावा तरतु धरणी यातु गगनमहिंसातत्त्वज्ञः परवधमहो नैव कुरुते // 49 // स सर्पाणामास्यादमृतमनलाद् वारिजवनं परावादाच्छान्ति: ह्युपकृतिमहो दुष्टमनुजात् / असुत्राणं श्वेडादुपलशकलात्तैलपृषतो वधाद्धर्म योऽत्राभिलषति च मूढो जनिमताम् वपुर्दिव्यङ्गोत्रं गुरुतरमथो वित्तमतुलं, बलम्भूरि त्वायुश्चिरतरमथारोग्यमनिशम् / 248 // 50 //