________________ दानी मानी हितार्थी खलभयविकलप्राणिरक्षकवृत्तिः, सङ्घो भेदेभसिंहोऽखिलमनुजमतः श्रेयसे वोऽस्तु भूम्याम् // 39 // सत्रा येनात्र साम्यं न च नयनपथे दृश्यते वा परेषामावासो विद्यते यो निखिलगुणगणस्याथ सेव्यो न कैर्वै / वन्दन्ते यञ्च सर्वे नमति च जिनपो जङ्गमन्तीर्थभूतं, कार्या को धर्मसेतोरपचितिरमला सङ्घदेवस्य भव्यैः // 40 // दिख्याता कीतिरेनम्भजति च कमला स्वैरमायाति पार्श्वे प्रीतिस्तम्प्रीतिमन्तं सुखयति सुमतिः सेवते सच्चरित्रम् / गीर्वाणश्रीर्वरिष्ठा श्रयति रतिरिवानङ्गदेवं नमस्यम् भव्यात्मा यश्च सङ्के त्रिविधकरणकैर्भावयत्यात्मनि हि // 41 // पीयूषाहारवासोजनपतिपदवी सेवनाद्यस्य लोके / चक्रित्वं प्राप्यते वा प्रतिफलति मनश्चिन्तितो येन भावः / यं स्तोतुं नैव शक्तो ह्यमरपतिगुरुः का परेषान्तथाऽऽस्था सोऽयं सङ्घः पवित्रः सुकृतपथजुषां रम्यगेहातिथि: स्यात् // 42 // श्रीसङ्घ सिद्धिसौधं नमत च भजत प्राप्तिकामाः सुखस्य, ऋद्धिः सिद्धिर्गणेशे विलसति च प्रथा सङ्घदेवस्य चाग्रे / व्यथैवास्तीह सत्यं सुकथयति मनो वीक्ष्य तस्यर्द्धिशोभां तस्मात् सङ्घो धरण्यां विलसतु नितरां श्रेयसे देहभाजाम् // 43 // उड्डीयन्ते च शाला अपि तृणनिवहो वात्यया किन्न लोके ? बध्यन्ते ते मदान्धा गिरिभकरटिनस्तार्णनिष्पन्नरज्ज्वा / हन्यन्ते जिह्मगास्ते लघुतनुविलसत्कीटसङ्घः सुखेन नद्याः पूरेण पूर्णा गिरिकमलजुषा प्लाव्यते काश्यपीयम् // 44 // स्वल्पैरप्येकनिष्ठैः सुप्रबलरिपवो भेदभावाहिदष्टा जीयन्ते सङ्घशक्तिः किमिह न कुरुते गौरवाढ्या बलिष्ठा / 240