________________ भजत भजत लोकाः केवलं सद्गुरूणां / चरणकमलयुग्मं किम्परैस्तैरुपायैः / यदभिलषितकामाः कुर्वते तानुपायान् गुरुपदवरिवस्यात इमे पाणिमध्ये // 30 // जनयति गुरुरेकः सन्मतिसद्विचारैः विमलसमयतत्त्वज्ञानपाथोधिचारी। गमयति शिवमार्ग ध्यानयोगादिलभ्यं गुरुरत इह भव्यैः सेवनीयोऽतिभक्त्या सुविमलमतिशुद्धा ये गुरूणां निदेशमहरहरिह भक्त्या मौलिभिर्धारयन्ति भवति च खलु तेषां ज्ञानवृद्धिर्वरिष्ठा, शिवसुखमतिभव्यं लभ्यते तैः सुबोधैः // 32 // जिनेन्द्रतत्त्वं न च ये विजानते, कथङ् गुरुं धर्ममथो विजानताम् / गुणागुणांश्चापि हिताहिते न वा, विदन्ति ते केवलिवाग्बहिर्मुखाः 33 गवी न येषां श्रुतिरन्ध्रमागता, जिनामराणामघवृन्दनाशिनी। अजागलस्थस्तनयुग्मकाविव, मुधैव तेषां श्रवसी कुजन्मनाम्॥ 34 // जिनेन्द्रतत्त्वं न च ये दयामयम्, विरुद्धवादातुलदोषनिर्गतम्। निजन्ति ते मूढधियः पराभवं, भवे भवे हन्त च यन्ति.सन्ततम् 35 विलोमयन्तीह जिनेन्द्रदूरगाः, सुधाजलविण्मणिमन्त्रबान्धवान् / विषाग्निनैशोपलशत्रुवर्मना, जिनागमार्थामृतपानवञ्चिताः // 36 // सुधीजिनेन्द्रागमसारदर्शको, जिनागमं दिक्षु तनोति सर्वतः / भिनत्ति मोहं दुरितञ्च कौपथं, मनोमलं क्षालयते च देहिनाम् 37 यथाऽव्यये देवमनोज्ञपादपो यथाऽचलो शैलसुमेरुनायकः / यथा ध्वनिष्वेव विभाति पञ्चमस्तथा मतेष्वत्र जिनेन्द्रदर्शनम् // 38 // निःस्वानाङ्कल्पशाखी कनकमणिगणैर्मेरुलङ्काभिजेता, भूतानां योऽखिलानां निधिरिह विधिना निर्मितो विश्वबन्धुः / 240