________________ जिनगुरुजिनधर्मे भक्तिमातिष्ठ सङ्घ वधवितथचौर्याब्रह्मवृत्ति विमुञ्च / त्यज परिग्रहको लाहि सौजन्यमार्ग, कुरु गुणिजनसङ्गश्चेन्द्रियाणि निरुध्य ददत ददत दानं सेव्यतां सत्तपश्च मनसि वचसि काये भावनाम्भावयन्तु विरतिमथ भवीये वस्तुजाते कुरुध्वममृतसदनकामाः सन्ति चेद्वै भवन्तः जिनाधीशपूजा जनाधीशक: महाव्याधिलोप्ती कृताघौघभेत्री / सदानन्ददात्री रमाभीतिही यश:स्फीतितन्त्री मनःखेदहन्त्री // 21 // जिनाधीशपूजाप्रभाभूषितस्य सुपर्वाधिलोकस्तकागारवेदी / समस्तावनीशप्रभूतेन्दिराया निवासोऽस्य गेहे सुखं राजतेऽत्र // 22 // जिनाधीशपूजां निधिः सिद्धयश्च विभान्तीह कर्तुगृहद्वारि नित्यम् / जराजन्ममृत्युप्रपीडाऽऽधितापैः विहीनः शरीरी भवेन्मुक्तिभाजी।। 23 / / जिनाधीशपूजा सुपूजा सुपूज्या तयैवाशु नैतिं प्रसिद्धिम्प्रभूताम् / कुसङ्गादिसङ्घप्रभीत: प्रभीत-स्त्यजत्येनमार्यं यथाध्वान्तमर्कम् 24 रिपुश्चापि मित्रञ्जिना! सुभक्त्या सुखञ्जायते कुर्वतो नुः परेऽपि / मनश्चिन्तिता एव सद्यः फलन्ति पदार्थाः सुविद्याः सुशिष्ये गुरूणाम्२५ जिनं यः प्रसूनैः प्रभूतैः प्रशुद्धैः सुगीतादिवाद्यैवरैर्नर्तनैश्च / सदा भावयत्यत्र सोऽपि परत्र तथैवामरैः पूज्यते स्तूयते (वन्द्यते) च२६ कुपथरतकलोकम्वारयत्यात्मबुद्ध्या, सुचरितपथयायी नो पदन्तत्र धत्ते। गुरुरयमतिमान्यः सेव्य एवात्रपुंभि-भवगहनसमुद्रात्तारयत्याशुयोऽन्यान् क्षपयति च कुबोधम्बोधयत्यात्मबोधं . कुपथसुपथभेदं दर्शयत्यागमार्थात् नरभवमिह लब्ध्वा कृत्यमेतद्धि त्याज्यम् निजवचनसुधाभिः सूचयत्येष बोध्यः // 28 // नरकंकुहरमध्ये प्राविशन्तं हि कश्चिदवयितुमिह देही देहिनन्दिव्यवर्षेः सुभटरथगजाश्वाः स्वे परे वा पितादिर्गुरुमिह गुरुबोधम्वै विना नो समर्थः 245