________________ // 15 // सद्धर्महारावलिमात्मनीनाङ्कण्ठे दधानाः परिभूषयन्ति स्वात्मानमन्यानपि भव्यजीवा धर्मामृतम्पेयमतोऽसुमद्भिः // 11 // धर्मास्त्रधारी निखिलाङ्गिचारी स्वख्यातिकारी भवभीतिहारी। मोहारिदारी जनरागकारी सेव्यस्ततोऽयञ्च मनोऽभिहारी // 12 // लब्ध्वा नरत्वङ्किल यश्शरीरी धर्मं विधत्ते यदि नो विमूढः। चिन्तामणिम्प्राप्य समुद्रवीचौ प्रक्षेपयत्येष हतो हतोऽतः // 13 // चिन्तामणेरेष विशिष्ट एंव विनाशहेतुर्यपि स कदा स्यात् / धर्मस्तु नित्योऽमृतदानशक्तिः परोपकर्ताऽखिलजीवराशेः // 14 // मन्दम्मन्दं क्षपयति यशः सत्कुले लब्धजन्मा, पित्रोनिन्दां सुकृतलघुतां वाच्यतां सभ्यवृन्दे / हा व्याधत्ते नयति पटति व्यादरो जायते स . मन्दक्रान्तिर्गमयति जनुर्यो मुधा वाग्विवादैः गीर्वाणदुर्गरलविटपी कृत्यते चोप्यते वै, कौ सत्सङ्गो विगप्तमतिभिस्त्यज्यते गृह्यते वा। कौसङ्गो हा स्वकुलगुरुतामुच्यते दीयते च, तैर्यैर्धर्मः परिहत हहा भोगपङ्काभिमग्नैः . // 16 // संसारेऽस्मिन्कथमपि घने प्राप्यते मोक्षसाधि, सदुष्प्राप्यन्नरजनुरहो पुण्यतः पुण्यहेतु / जीवाधारः सुमतिदसरवस्त्यज्यते चेत्सुधर्मः, संसाराब्धिहुंपलशकलैस्तीर्यते किम्विना तम् // 17 // अर्हद्भक्तिः सुगुरुविनयः प्रीतिभावोऽखिलेषु, सत्या वाणी परहितमतिः सत्पथाचारवृत्तिः। . नित्यं सङ्गो बुधमुनिजनैर्ज्ञानमार्गाभिलाषो, देहं लब्ध्वा द्वयसुखप्रदं कृत्यमेतद्धि पुंसाम् // 18 // 244