________________ // 4 // जिनानाञ्जनानां महापापराशिम् पवित्रोपदेशैः स्यतां ज्ञानभाजाम् / निधायात्मकुट्याम्पुरा रम्यमूर्ती-स्तदीयांहिकजं श्रयेऽहं नमामि॥ 3 // शुद्धां शुद्धस्वरूपविश्वविदितां ज्ञानालयां ज्ञानिनीम् ज्ञानादानप्रदानभूरिविभवाम्पादाश्रयिस्वस्तरुम् // तन्त्रीपुस्तकमालिकाञ्चितकराम्पाथोजरम्यासनाम् वन्दे वन्द्यतमां सितच्छदगताम्वाग्वादिनीम्मातरम् श्रीमन्तः स्वान्ततोषा विरतिपथपुषः सत्तपागच्छकेनाः सद्ध्यानस्वल्पमोहा गुरुविमलदयापूज्यपंन्यासपादाः / सद्भाग्याः शालिशीला गतमलविमलध्यानिसौभाग्यविज्ञा जीयासुर्जन्मिभाजां सततहितकरास्तीर्थपाध्रिद्विरेफाः // 5 // तत्पादपद्ममुदितस्तककम्पयैव नत्वा करोति तत्पादयुगम्मनोज्ञम् / सत्तत्त्वबोधममलञ्जनुषां हिताय श्रीमुक्तिवैमलमुनिर्वरमुक्तिरक्तिः 6 मद्वाण्या गुणदोषयोः परिकरे सन्तः समानाशया, . जायन्तामथ मोदपीनतनवः श्लाघार्थिनः सन्तु शम् / कृत्वाऽन्तर्मलराशिमाशु निखिलं स्वच्छा स्वयङ्कुलिनी पेया सन्ततमा प्रयाति शिवदा तादृग्गतिः कौ सताम् // 7 // पश्यन्तीह गुणार्थिनो न च कदा सद्धर्मधीशालिनो, दोषान् वृत्तिमथोऽत्र ते नु दधतो मान्याः सदा भ्रामरीम् / सिन्धुः क्षारतमोऽपि रत्ननिकरैर्दारिद्रयमामूलतो लोकानाङ्किल हन्ति सन्त इह वै पीयूषपूर्णा पुनः प्राधान्यमस्तीह यथा शरीरे मौलेः सुमेरोगिरिमालिकासु वर्गत्रये श्रेष्ठतमस्तथाऽस्ति धर्मो विना तं पशुरेव मन्ये // 9 // तेनैव पद्मातकयाऽभिलाषपूर्तिस्तयाऽक्षोत्तमतृप्तिलाभः / . धर्मस्ततः सेव्य इहात्ममोदी तेनैव भातो नरि चार्थकामौ // 10 // // 8 // .. . 243