________________ कलयति यथा वृद्धि धर्मः कुकर्महतिक्षमः सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् .. // 96 // करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं, मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयोः / हृदि स्वच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो, . विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् // 97 // भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् / यतश्छायाप्येषां प्रथयति महामोहमचिरा- . दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति // 98 // सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु। . तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति // 99 // अभजदजितदेवाचार्यपट्टोदयाद्रिधुमणिविजयसिंहाचार्यपादारविन्दे / मधुकरसमतां यस्तेन सोमप्रभेण व्यरचि मुनिपनेत्रा सूक्तिमुक्तावलीयम् // 100 //