________________ विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः // 89 // चण्डानिलः स्फुरितमब्दचयं दवाचिर्वृक्षव्रज तिमिरमण्डलमर्कबिम्बम् वजं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम्९० नमस्या देवानां चरणवरिवस्या शुभगुरोस्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् / निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरसि चेत् // 91 // भोगान्कृष्णभुजङ्गभोगविषमानराज्यं रज:संनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् / भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजंस्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्तः पुमान् // 92 // जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् / गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि // 93 // त्रिसंध्यं देवार्चा विरचय चयं प्रापय यशः श्रियः पात्रे वापं जनय नयमार्ग नय मनः / स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां / जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् // 94 // कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमं / हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् / गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिखजं स्मृत्वा पञ्चनमस्क्रियां कुरु करक्रोडस्थमिष्टं सुखम् // 95 // प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदराभ्युदयजननी याति. स्फातिं यथा गुणसंततिः / 15