________________ निष्णात: पवनं विना निरसितुं नान्यो यथाम्भोधरं कौघं तपसा विना किमपरो हन्तुं समर्थस्तथा // 83 // संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः पञ्चाक्षीरोधशाख: स्फुरदभयदलः शीलसंपत्प्रवालः / .. श्रद्धाम्भ:पूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः // 84 // नीरागे तरुणीकटक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि / विष्वग्वर्षमिवोषरक्षितितले दानार्हदर्चातषःस्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् // 85 // सर्वं जीप्सति पुण्यमीप्सति दयां धित्सत्यघं मित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति / कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् // 86 // विवेकवनसारिणी प्रशमशर्मसंजीवनी भवार्णवमहातरी मदनदावमेघावलीम् / चलाक्षमृगवागुरां गुरुकषायशैलाशनिं . विमुक्तिपथवेसरी भजत भावनां किं परैः // 87 // घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् / तपस्तीव्र तप्तं चरणमपि चीर्णं चिरतरं न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् यदशुभरज:पाथो दृप्तेन्द्रियद्विरदाङ् कुशं कुशलकुसुमोद्यानं माद्यन्मनःकपिश्रृङ्खला / // 88 // 14