________________ // 77 // // 78 // // 79 // पुण्यं कन्दलयत्यघं दलयति स्वर्गं ददाति क्रमानिर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते नाकीतिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति / दैन्यं नादियते दुनोति न दर: क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् लक्ष्मीः कामयते मतिमंगयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नीरोगतालिङ्गति / श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थितिमुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् तस्यासना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः।। पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंपत्सप्तक्षेत्र्यां वपति विपुलं विचबीजं निजं यः / यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् / यत्प्रत्यूहतम:समूहदिवसं यल्लब्धिलक्ष्मीलतामूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते काम: शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति / उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्नि विना दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् / 13 // 80 // // 81 // // 82 //