SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ // 1 // // 72 // . // 73 // श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रियव्रातं जेतुमवैति भस्मनिहतं जानीत सर्वं ततः / धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथालङ्कर्मीणमशर्मनिर्मितिकलापारीणमेकान्ततः / सर्वान्नीनमनात्मनीनमनयात्यन्तीनमिष्टे यथाकामीनं कुपथाध्वनीनमजयन्नक्षौघमक्षेमभाक् निम्नं गच्छति निम्नंगेव नितरां निद्रेव विष्कम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव दत्तेऽन्धताम् / चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय- . त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठादुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् / निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः लक्ष्मी: सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनीसंसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् / चैतन्यं विषसन्निधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नति पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् / // 74 // // 75 // // 76 // 12
SR No.004462
Book TitleShastra Sandesh Mala Part 12
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages382
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy