________________ // 65 // // 66 // // 67 // वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः सङ्गं गुणिनां विमुच्य विमति: कल्याणमाकाङ्क्षति हरति कुमति भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् / प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गति जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम् / रोद्धं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त ! समीहसे गुणवतां सङ्गं तदङ्गीकुरु हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति दयारामे क्षेमक्षमाभृति वज्रति। .. समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः किमभिलषता श्रेयः श्रेयःस निर्गुणसंगमः आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यःकृष्णसर्पायते / यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुभव : प्रतिष्ठां यनिष्ठां नयति नयनिष्ठां विघटय'त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते। ' विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां करणनिकुरम्बं कुरु वशे धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यतामस्त्वन्तर्गणमागमश्रममुपादत्तां तपस्तप्यताम् / 11 // 68 // // 69 // // 70 //