________________ क्रीडासद्म कलेविवेकशशिनः स्वर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् // 58 // निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे / बाढं धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौघ:५९ जात: कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे . चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् / विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते . // 60 // वरं क्षिप्तः पाणिः कुपितफणिनो वक्त्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः / वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा // 61 // सौजन्यमेव विदधाति यशश्चयं च स्वश्रेयसं च विभवं च भवक्षयं च / दौर्जन्यमावहसि-यत्कुमते ! तदर्थं धान्येऽनलं क्षिपसि तज्जलसेकसाध्ये वरं विभववन्ध्यता सुजनभावभाजां नृणामसाधुचरिताजिता न पुनरूर्जिताः संपदः / कृशत्वमपि शोभते सहजमायतौ सुन्दरं / विपाकविरसा न तु श्वयथुसंभवा स्थूलता // 63 // न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् / स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय- . त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् // 64 // धर्मं ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमाकाव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधाः श्रुतम् / 10