________________ भ्रमन्नुर्त्यां स्वैरं विनयवनवीथीं विदलयञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव . // 50 // औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् / कीर्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्गं नृणाम् // 51 // मुष्णाति यः कृतसमस्तसमीहितार्थं संजीवनं विनयजीवितमङ्गभाजाम् जात्यादिमानविषजं विषमं विकारं तं मार्दवामृतरसेन नयस्व शान्तिम् कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् / शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुश्च मायाम् // 53 // विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति / ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव // 54 // मायामविश्वासविलासमन्दिरं दुराशयों यः कुरुते धनाशया। सोऽनर्थसार्थं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन् // 55 // मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः / जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत्॥५६ यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते / सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं सर्पन्ति प्रघनं धनान्धितधियस्तल्लोभविस्फूर्जितम् मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधाग्नेररणिः प्रतापतरणिप्रच्छादने तोयदः / // 57 //