________________ न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् // 44 // यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्गदहने सप्ताचिषः सोदरः / चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैंनिर्मूलमुन्मूल्यताम् // 45 // फलति कलितश्रेयः श्रेणीप्रसूनपरम्परः . प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः / यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः .. || 46 // संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् / कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगति स हातुमुचिंतो रोषः सदोषः सताम् // 47 // यो धर्मं दहति द्रुमं दव इवोन्मथ्नाति नीति लतां दन्तीवेन्दुकलां विधुन्तुद इव क्लिश्नाति कीर्ति नृणाम् / स्वार्थं वायुरिवाम्बुदं विघटत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् // 48 / / यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिशिष्टाभिरुचितगुणग्रामनामापि नास्ति। यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रि परिहर दुरारोहमौचित्यवृत्तेः // 49 // शमालानं भञ्जन्विमलमतिनाडी विघटयकिरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम् / /