________________ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते / कीर्तिः स्फूर्तिमिति यात्युपचयं धर्मः प्रणश्यत्यघं स्वनिर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते // 38 // हरति कुलकलङ्कं लुम्पते पापपर्धा सुकृतमुपचिनोति श्लाघ्यतामातनोति / नमयति सुरवर्ग हन्ति दुर्गोपसर्ग रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् // 39 // तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति / विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्धृवम् // 40 // कालुष्यं जनयञ्जडस्य रचयन्धर्मद्रुमोन्मूलनं विलश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्धयन् / मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशकिं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः कलहकलभविन्ध्यः क्रोधगृध्रश्मशानं व्यसनभुजगरन्धं द्वेषदस्युप्रदोषः / सुकृतवनदवाग्निर्दिवाम्भोद्रवायुर्नयनलिनतुषारोऽत्यर्थमर्थानुराग:४२ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् / व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः केलीवेश्म परिग्रहः परिहतेर्योग्यो विविक्तात्मनाम् // 43 // वहिस्तृप्यति नेन्धनैरिह यथा. नाम्भोभिरम्भोनिधिस्तवल्लोभघनो घनैरपि धनैर्जन्तुर्न संतुष्यति / // 41 //