________________ पापेन यातो नरचक्रवर्ती श्रीब्रह्मदत्तः किल सप्तमी वै। पापाद्विरम्यैव ततः सुकार्यं पुण्यञ्च येन भविताऽऽशु मोक्षः // 275 // सम्यक्त्वस्यापि चत्वारः सन्ति भेदा जिनोदिताः / उपशामिकमेकञ्च क्षायोपशामिकन्तथा // 276 // क्षायिकन्तृतीयं ज्ञेयं सास्वादनञ्चतुर्थकम् / वेदकम्पञ्चमं ज्ञेयं ज्ञात्वा यान् याति सत्पदम् // 277 // भूषणान्यपि पञ्चैव ज्ञेयानि तस्य सद्गतेः / तीर्थसेवा च दक्षत्वं संस्थैर्योन्नतिभक्तयः // 278 // . दूषणान्यपि पञ्चैव सम्यक्त्वस्य विभाव्यताम् / यानि त्यक्त्वा च मेघावी जिनदर्शनभाग् भवेत् // 279 // संस्तुतिः परकीयस्य सार्धं तेन च संस्तवः। शङ्का काङ्क्षा विचिकित्सा ज्ञेयानीति नरोत्तमैः // 280 // धर्ममूलं हि सम्यक्त्वं मूलं स्वर्गसुखस्य च / क्रमशो जायते मोक्षः सम्यक्त्वञ्चर्यतान्ततः // 281 // सम्यक्त्वरत्नदीपेन जाड्यध्वान्तमहर्निशम्। खण्ड्यतां येन जीवात्मा स्वयं शुद्धः शिवं व्रजेत् . // 282 // सम्यक्त्वनावमाश्रित्य तीर्यताम्भवसागरः / गम्यतां तत्पदं भव्या यस्मिन्सौख्यं निरामयम् // 283 // सम्यक्त्वज्ञानसूर्यस्य, यावन्नोदय आत्मनि / तावद्धर्मस्य सज्ज्ञानं शास्त्राणाञ्च कुतो भवेत् // 284 // सम्यक्त्वञ्चारुरत्नं विलसति हृदये यस्य पुंसो विशुद्धम्,.. तद्दीप्त्या खण्डयन् सन् कलिमलममलं वेत्ति धर्मस्य तत्त्वम् / धर्मारूढो हि पश्चाच्चरति च सुकृतं तेन वृद्धिः सुखानाम्, भुक्त्वा निर्वाणमेति व्यपगतभयकं श्रेणिकाधीशवच्च // 285 // 234