________________ हंसमध्ये यथा काको घूकः पक्षिसमूहके। यथा श्वा पशुसन्ताने ग्रहेषु च शनैश्चर: // 263 // निन्द्यो निन्द्यतमस्तद्वन्नरेषु पारदारिकः / कथ्यते निन्द्यते सर्वैर्न मानं लभते क्वचित् // 264 // यशो नश्यति मा याति गुहायां क्वापि सत्वरम् / गौरवं हासतामेति मालिन्यमवतिष्ठते // 265 // सङ्गो न कार्य: परवल्लभायाः सत्कीर्तिकामैर्मरणेऽपि जातु / / सहस्रयोनिः सुरनायकोऽभूत् श्रीगौतमस्त्रीपरिघर्षणेन // 266 / / पद्मोत्तरोऽवनिपतिस्त्रिदशाङ्गनाभैर्दाराशतैरपि युतः परदारकामी। पाश्चालनाथतनयापरिघर्षणेन नाशत्वमाप नृपकीचकोऽपि तद्वत्।।२६७।। पात्यते येन जीवात्मा नरकादौ निरन्तरम् / पापं तच्च विजानन्तु जीविते सति कष्टदम् // 268 // श्वासकासादयो रोगा गण्डमालभगन्दराः / विजायन्ते च पापेन पापं वै दुःखकारणम् // 269 // कालकूटति पीयूषं मित्रञ्चापि विपक्षतिं / वैधेयति सुधीश्चापि सज्जनो दुर्जनायते // 270 // फेरुः सिंहति सारङ्गः क्रोडति किल्बिषादिह / तस्मात्पापं न कर्तव्यं लब्ध्वा नृजन्मदुर्लभम् .. // 271 // मालिन्यञ्जायते देहे कर्मण्यपि तथैव च। . आपदो भूरि सन्तापाः पापाच्चेह भवन्ति वै // 272 // दोषायन्ते गुणाः सर्वे मूढताऽऽयाति सर्वतः / विलीयते च सज्ज्ञानञ्चाज्ञानं हृदि भाषते // 273 // पापिनाम्प्रायशो लोके सुताद्या अपि पापिनः / 'जायन्ते हेतुमद्भावाद् बीजाङ्कुरकनीतितः // 274 // . 233