________________ शबालिङ्गनवज्ज्ञेयं वेश्याऽऽलिङ्गनमत्र वै। . न प्रीतिर्न च वा स्नेहो न रागो हन्त ! चान्तरः // 228 // करिणीस्नेहतो दन्ती यथा गर्ने निपात्यते / वेश्यासु स्नेहतस्तद्वत्पीड्यन्ते मूढबुद्धयः // 229 // उपदंशादिरोगाणां वेश्यासङ्गो हि कारणम् / गलत्कुष्ठीव तत्सङ्गी तेन येगेण पीड्यते // 230 // वेश्येयं पापमूला परधनहरणे पाटवञ्चादधन्ती, नि:स्नेहा निःस्वमयं नयति यमगृहं प्रीतिमान् यः पुराऽऽसीत् / शम्पावद् दृष्टनष्टा भुवि जनहृदयं दिव्यवासो दधाना, आकर्षत्याशु दक्षा निधुवननिपुणा कायवन्नादिवच्च // 231 // खिट्यन्ते पशवो येन तृणादा अपि निर्दयम् / आखेट इति विज्ञेयः पापहेतुर्दुःखप्रदः ' // 232 // आखेटयति यो मूढः पिशिताशनलोलुपः / वन्यवृत्तींश्च रङ्कादीन् शरीरपुष्टिहेतवे // 233 // तत्समो नास्ति पापिष्ठस्तत्समो नास्ति राक्षसः / तत्समो नास्ति पैशाचः स एव निरयातिथि: // 234 // पैशाची वृत्तिमाश्रित्य गह्वरं याति दुष्टधीः / कृत्वा स्कन्धे च शस्त्राणि यमराज इवापरः // 235 // क्रूरः क्रूरतमः सोऽथ क्रूरदृष्ट्या निभाल्य च / विनापराधमाहन्ति, पशून्केलिरतानपि // 236 // वियोगीकृत्य तान्मूढः स्वतन्त्रवनचारिणः / कृतकृत्यञ्च स्वं मन्ये धिक् तां तादृशचेष्टिनम् // 237 // धर्मबिन्दुप्रलिप्ताङ्गाः कण्टकक्षतविग्रहाः / क्षुत्पिपासासमाक्रान्ताः स्वप्राणवधसंशयाः // 238 // 230