________________ // 149 // // 150 // // 151 // // 152 // // 153 // सुखमिच्छसि भो जीव ! यदि वाञ्छसि सद्गतिम् / अभ्याख्यानञ्च कस्यापि न वक्तव्यन्त्वया कदा सौभद्रायाः श्वसुस्तस्या मिथ्यात्विन्या निदर्शनम् / शीलाभ्याख्यानतो ज्ञेयं फले वैषम्यमद्भुतम् अभ्याख्यानं गुरुतरमहो दोषमूलं हि मन्ये, द्वेषोत्पत्तिनिरयगमनं प्रेमविच्छेदता च / लोके निन्दा भवति नितरां पुण्यसन्दोहनाशो, वासो मध्ये भवति न सतां कीर्तिनाशोऽपि सम्यक् पुरा कृतानि षुण्यानि यद्धि पिनष्टि मूलतः / पैशुन्यं तद्धि विज्ञेयं निन्द्यं निन्द्यतमं यतः वरं मौर्यञ्च मूकत्वं निर्धनत्वं वरन्तथा। पैशुन्यं न परं श्रेष्ठं महापापनिबन्धनम् आत्मानम्पातयत्येष पैशुन्यदोषतो न किम् ? / . अनेकैर्दुःखसंघातैः पीड्यते भुवि सन्ततम् / न सिद्धिः क्वापि पैशुन्ये परकार्यविघातके। विषवृक्षे समारोपे कुतः स्वादुफलागमः पैशुन्यवृत्तिशीलानां नादरः क्वापि जायते / वाच्यता गुरुता लोके विश्वासघातिनामिव श्लाघामञ्चति. धर्मोऽपि दानशीलतपोमयः / यावत्पैशुन्यदोषेण ग्रसितो नो भवेत्पुमान् पैशुन्यमार्गयायी ना तर्जनीं समधिश्रितः / * निन्दामाप्नोति सर्वत्र विश्रम्भात्परिहीयते सत्क्रिया निष्फलास्तस्य दानशौर्यादिकन्तथा / पैशुन्यं यदि जिह्वाग्रे कीर्तिहारि च तिष्ठति 223 // 154 // // 155 // // 156 // // 157 // // 158 // // 159 //