________________ // 160 // // 161 // // 162 // // 163 // // 164 // पैशुन्याध्वगमी नरः प्रतिलवम्बध्नाति कर्माधमम् / विश्वासादपहीयते वरजनै! लभ्यते सङ्गतिः / कीर्तिनश्यति निन्द्यते प्रतिपदे क्लेशस्तथा प्राप्यते / पैशुन्यञ्च ततस्त्यजन्तु कलिदं श्वभ्रादिहेतुस्तथा विषयेषु च याऽऽसक्तिः पौन:पुन्येन देहिनाम् / रतिरेषा च विज्ञेया विपरीताऽरतिर्मता वृद्धिासस्तयोः पुंसां कर्मणैव विजायते। . तादृशं कर्म बध्नीयात् येन सा न्यूनतां व्रजेत् आदौ भूमिस्ततो बीजन्ततोऽङ्कुरसमुद्भवः / तथा रतिः पुरा भूयोऽरतिश्चाथ ततो व्यथा सुखमूलानि वस्तूनि विलोक्य खलु मानवः / मुदमेति रते रूपं विज्ञेयं बन्धनोदयम् दोषयुक्तेषु तेष्वेव जायते किल याऽरतिः / उभे ते दोषयुक्तत्वात्याज्ये एव विचक्षणैः रते वेषु गायँ स्या-दरते१ःखसन्ततिः।। दुःखमुभयतः पुंसामतस्त्याज्ये उभे अपि स्वर्गीयभोगविभवादिकृते रतिःकार्या न कार्यनिपुणैः किल साऽपि प्रायः / अप्राप्तितोऽरतिरुदैति ततोऽवधार्य, निःस्वार्थमोक्षपदवीमतिराविधेया मिथ्यारोपश्च येनाऽत्र क्रियते गुणिषु मुधा / स एव शास्त्रनिष्णातैः परापवाद उच्यते उपेक्षाभावनाञ्जिह्वे स्मृत्वा सञ्चर कर्मणि / सुन्दरे येन ते मोक्षो भविता भववारिधेः // 165 // . // 166 // // 167 // // 168 // // 169 // 224