________________ काणः खञोऽथ कुब्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः, .. खण्डोष्ठाश्छिननाशः परिजनरहितो दुर्भगो रोगगेहम् / दुष्पुत्रो दुष्कलत्रः स्वजनपरिजनैर्निन्दितो हीलनीयः, सत्त्वो यज्जायते तत्सकलमिदमहो चेष्टते जीवहिंसा // 6 // यद् वैधव्यवियोगदुर्भगतया युक्तं नवं यौवनं, यत् सत्पुत्रसुतासुबन्धुविकलं क्लान्तं वयो मध्यमम् / वार्द्धक्यं बहुरोगशोकसदनं जातं तदेतद् ध्रुवं, नारीणामदयातरोर्मुकुलकं नाद्यापि धत्ते फलम् अपापस्य हि यः पापः, पापं चिन्तयते नरः / तस्यैव तत्फलत्युच्चैर्जम्बुकस्य वने यथा // 7 // // 8 // 9 // दानाष्टकम् // तर्षेऽम्बुस्त्रैः कुगतीदमन्तरं दातव्य नो शील यशांसि दानमे / पाषाण हेमोज्ज्व य आच तनु सुज्ञानस्य दानाष्टकमेतदीरितम् // 1 // तर्षेऽम्बु क्षुधि भोजनं पथि रथः शय्या श्रमे नौर्जले, छायोष्णे शिशिरे शिखी प्रतिभये त्राणं तमिस्र प्रभा। व्याधौ सत्प्रतिचारकौषधभिषक् संपद्विदेशे सुहृद्दानं, संसरतां भवे बहुभये चिन्तामणिः प्राणिनाम् अन्नैः पानैर्विचित्रैविभवसमुचितैरौषधैर्भेषजैर्वा, वस्त्रैः पात्रैः पवित्रैर्वसतिवितरणैरासनैः संस्तरैर्वा / सर्वे धर्मोपकारं प्रतिहितनिपुणैर्वस्तुभिर्दण्डकाद्यैः, साधूनां पुण्यभाण्डाश्चरणगुणवतां कुर्वते साधुपूजाम् कुगतिपथपिधानं गोपितं सन्निधानं, सकलसुखनिदानं पापपङ्कापहानम् / 204 // 3 //