________________ // 7 // कृतसमयविधानं विञ्जयित्वा विधानं, सततविततभक्त्या साधुसङ्घाय दानम् // 4 // इदमन्तरमुपकृतये प्रकृतिचला यावदस्ति संपदियम् / विपदनियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ? दातव्यं भोक्तव्यं सति विभवे संचयो न कर्त्तव्यः / पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये // 6 // नो शीलं प्रतिपालयन्ति गृहिणस्तप्तुं तपो नो क्षमा, आर्तध्याननिराकृतोज्ज्वलधियां तेषां कुतो भावना? / एतेषां निपुणेन हन्त मनसा सम्यग् मया निश्चितं, नोत्तारो भवकूपतोऽस्ति सुदृढो दानावलम्बात्परः यशांसि दानेन भवन्ति लोके, दानेन वैराण्यपि यान्ति नाशम् / परोऽपि बन्धुत्वमुपैति दानात्तस्माच्च दानं सततं प्रदेयम् // 8 // दानमेकं सहस्राणि दोषाणां छादयेन्नृणाम् / .. यथा तमः पदार्थानां, पटलानि बहून्यपि / पाषाणोऽपि विवेकवर्जितवपुश्चिन्तामणिः पूज्यते, शङ्खोऽप्यस्थि विचेतनं जडतनुः कल्पद्रुमः पूज्यते / अज्ञा गौरपि गौरवेण गुरुणा श्रीकामधेनुर्जनैः, दातुर्दोषशतान्यपास्य कुरुते सर्वोऽपि सर्वादरम् // 10 // हेमोज्ज्वलद्विरदबाजिरथाधिरूढः, श्वेतातपत्रविनिवारितभानुरश्मिः / यत्तूर्यशङ्खजयशब्दपदातिवृन्दो निर्याति मन्दिरधरस्तदुशन्ति दानात् 11 य आचष्टे संख्यां गगनतलनक्षत्रविषया मिदं वा जानीत कतिचुलुकमानो जलनिधिः / अभिज्ञो जीवानां समकणपरावर्तकथने, ' प्रमाणं पुण्यस्य प्रथयतु स पात्रार्पितधने // 12 // ... 205