________________ हिमगिरिशिखातुङ्गे गेहे सुचित्रसमुज्ज्वले, मणिमयलसद्दीपालीभिर्निरस्ततमश्चये। यदिह विलासान् भोगान् भुक्त्वा समं शुभयोषिता, तदिदमखिलं धर्मस्योच्चैः कृतस्य विचेष्टितम् // 24 // // 1 // // 2 // 8 // पापाष्टकम् // यद्वैरूप्यमलिनोदरशतवाणिज्यकाणयत्नेन / यद्वैधव्यमिति स्फुटमष्टकमिह भवति पापस्य यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता, दारियं स्वजनाच्च यत्परिभवो मौख्यं परप्रेषणम् / तृष्णाऽल्पेऽल्पमनिर्वृतिः कुशयनं कुस्त्री कुभक्तं रुजः, सर्वं पापकुजस्य तत् सुमहतो व्यक्तं फलं दृश्यते मलिनवपुषो दीना हीना गदेन विपीडिताः, स्फुटितचरणा दुर्गन्धास्याः सदैव बुभुक्षिताः / विटशतगृहे प्रेष्याः कष्टात्कष्टोदरपूरणा, यदिह मनुजा जायन्तेऽघं तदत्र विजृभ्मते दरशतचिते आख्वाकीर्णं रजश्चयसंकुले, .. शुषिरनिपतद्वाते शीर्हलैरिव वाहिते। . शिशिरसमये यच्छीतार्त्तश्छवित्रविवर्जिते, * गमयति निशास्तल्लोद्वेल्याः फलं च तदंहसः वाणिज्यं कृषिपाल्यकर्मकरणं पाथोनिधेर्लङ्घनं, सेवा लेख्यंलिपी विदेशगमनं लोहाकरोद्वाहनम् / गन्त्रीरासभसौरभेयकरभैर्भारस्य चोत्क्षेपणं, सर्वं निष्फलमेव पापवशतः कष्टाय संपद्यते // 3 // // 4 // 203