________________ धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः / कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति च स्वर्गापवर्गप्रदः // 17 // धर्माज्जन्म कुले कलङ्कविकले जाति: सुधर्मात्परा, धर्मादायुरखण्डितं गुरू बलं धर्माच्च नीरोगता। धाद्वित्तमनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि // 18 // धर्मो भीमभवाटवीपथि नरं पाथेयमेकान्तिकं, धर्मो दुर्गतिभीतजन्तुनिवहत्राणं त्रिलोकीप्रभुः / धर्मो मोक्षतरूप्रबन्धजनने निर्व्याजबीजोत्तमो, धर्मः सर्वविकल्पकल्पविटपी तस्यास्तु लाभस्तव // 19 // धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदःकिमपरं पुत्रार्थिनां पुत्रदः / . राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां, तत्किं यन्न करोति किंच तनुते स्वर्गापवर्गावपि // 20 // नापण्डिताः पण्डितवेदनीये, जैने मते सत्त्वमते रमन्ते। सुगन्धिनि श्रीमति सत्पवित्रे, न मक्षिकाः पद्मवने पतन्ति // 21 // यन्नागा मदवारिभिन्नकरटास्तिष्ठन्ति निद्रालसा, द्वार हमविभूषिताश्च तुरगा हेषन्ति यद्दप्प॑िताः / वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते, तत्सर्वं सुरलोकभूतिसदृशं धर्मस्य विस्फूजितम् // 22 // यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नादरन्ति। आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति // 23 // 203