________________ // 1 // // 2 // // 3 // ||4 // औदार्यसत्त्वो यदि धर्म धर्मो, धर्माज्ज धर्मो नाप यन्न यत्न हिमा वृषाष्टकम् शीलेन नारी विनयेन शिष्यो, घनेन वर्षा जलदो जलेन / कुलं सुपुत्रेण यथैव भाति, परोपकारेण तथैव धर्मः पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालङ्कृतः, स्निग्धो बन्धुजनः सखाऽतिचतुरो नित्यं प्रसन्नः प्रभुः। निर्लोभोऽनुचरः परार्तिशमने प्राप्तोपयोगं धनं, सद्धर्माभ्युदयेन सन्ततमिदं कस्यापि संपद्यते . हयगजघटासत्पादातोत्पताकरथोद्भटै र्यदिहनृपतिर्यानारूढः प्रयाति वृतो बलैः / निजसुचरितध्वानं शृण्वन् कृतं मधु माधवे, सुचरितमहाधर्मस्यैतत्फलं प्रकटं जनाः दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च / भवार्णवोत्तारणसत्तरण्डं, धर्मं चतुर्द्धा मुनयो वदन्ति पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् / अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् सेतुः संसारसिन्धौ निबिडतरमहाकर्मकान्तारवह्नि मिथ्याभावप्रमाथी पृथुपिहिततमोदुर्गतिद्वारभागः / येषां निर्व्याजबन्धुर्भवति परभवासनसत्त्वावलम्बी, धर्मस्तेषां किमेभिर्बहुभिरपि वृथाऽऽलम्बनैर्बान्धवाद्यैः? न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रकृतितो, न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः / . न पत्तिवित्तं वा बहुभिरथवा किं प्रलपितैः ?,. सहायः संसारे भवति जिनधर्मः परमिह 200 // 5 // // 7 // // 8 //