________________ यस्येत्थं पुरुषस्य यान्ति दिवसास्तस्यैव मन्यामहे, श्लाघ्यं जन्म च जीवितं च सफलं वित्तं च तारुण्यकम् // 7 // सम्यक्त्वे निर्मलत्वं गुणनमपि तथा शक्तितः सुव्रतानां, स्थाने वासो जिनानामपचितिकरणं वन्दनं भक्तितश्च / शुश्रूषा साधुमूले वितरणतपसोरुद्यमो भावनायां, चित्तन्यासो विधेयः स्फुटमिदमिह हि श्रावकैः संविधेयम् // 8 // यो धर्मशीलो जितमानरोषी, विद्याविनीतो न परोपतापी। स्वदारतुष्टोऽपरदारवर्जी, न तस्य लोके भयमस्ति किञ्चित् // 9 // भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे, दीनादिभ्यः प्रदानं श्रवणमभिदिनं श्रद्धया सुश्रुतीनाम् / पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः, . सङ्गो निःसङ्गचितैर्विषयविमुखता धर्मिणामेष धर्मः // 10 // त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगुणज्ञानचारित्रभेदाः / इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् स वै शुद्धदृष्टिः // 11 // जिनेन्द्रपूजा गुरुपर्युपासना, स्वाध्याययोगः करुणा च जन्तुषु / तपः स्वशक्त्या मुनिदानमञ्जस्य, सच्छावकैः कार्यमिदं हि नित्यशः न भिल्लपल्लीषु न चौरसंश्रये, न पार्वतीयेषु जनेषु संकटे। न हिंस्रदुष्टाश्रयलोकसन्निधौ, कुसङ्गतिः श्राद्धंजनस्य निन्दिता।। 13 / / 7 // धर्माष्टकम् // शीलेन पत्नी हय दानं पञ्चै सेतुर्न राज्ञा वपुषि भवाहितो।