________________ // संसारारण्यभीतिगुरुशरणतया कर्मनिर्मूलनेच्छा, प्राग्जन्मोपात्तपुण्यैरिति भवति नृणां सर्वसामग्रीकेयम् दुष्प्रापं मानुषत्वं जिनवरवचनं प्राप्य पुण्यानुभावादायुस्तारुण्यबन्धुद्रविणकणसुखान्यस्थिराणीह मत्वा। धर्मे यत्नो विधेयः प्रतिदिवसमहो सर्वकल्याणहेतौ, संसारापारदुःखप्रतिहतिविधये धीधनैः सन्मनुष्यैः . // 10 // .6 // श्रावकाष्टकम् // चिन्ता श्रद्धा तत्र धाम्नि त्रिसन्ध्यं, न्यायो देवं साम्यता धर्मभक्तिः। त्रैकाल्यं जैनोपधाभिल्लपल्ली, शिष्टं शिष्टैरेष्टकं श्रावकाणाम् // 1 // चिन्तामणिर्मणिषु कल्पतरुस्तरूणां, सन्तः शठेष्वविकलौ करुणा गुणेषु पूर्वोदिताः कलियुगे विरला पदार्थाः, सच्छ्रावकत्वमपि सम्प्रति तद्वदेव श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्यनारतम्। किरत्यपुण्यानि सुसाधुसेवनादतश्च तं श्रावकमाहुरुत्तमाः // 3 // तत्र धाम्निवसति (निवसेद्) गृहमेधी, संश्रयन्ति खलु यत्र मुनीन्द्राः। यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र // 4 // त्रिसन्ध्यमेव प्रणिपातपूर्वकं, विशुद्धमुद्रान्वितशुद्धमादरात् / ... प्रमोदरोमाञ्चितविग्रहो गृही, जिनेन्द्रबिम्बान्यभिवन्दते सदा // 5 // न्यायोपात्तं समुचितगुणं कल्पनीयं यतीनां, वस्त्रं पात्रं परममशनं भैषजं रोगहारि / दत्तं भक्त्या विपुलमनसा श्रावकेण प्रकामं, दत्ते मुक्तिं सुरनरभवे का कथा यन्न लभ्ये ? . देवं पूजयतो दयां विदधतः सत्यं वचो जल्पतः, सद्भिः सङ्गमनुज्झतो वितरतो दानं मदं मुञ्चतः / // 6 // 198