________________ // 2 // // 3 // // 4 // वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला, सेव्याः सन्मुनयश्च पूज्यचरणाः श्रध्ध्यं च जैनं वचः। . सच्छीलं प्रतिपालनीयमतुलं कार्यं तपो निर्मलं, ध्येया पञ्चनमस्कृतिश्च सततं भाव्याश्च सद्भावनाः संसारापारवारे जननमृतिजले मज्जमानैर्जनौधैदृष्टान्तैश्चुल्लुकाद्यैर्जिनपतिगदितैर्दुर्लभं मानुषत्वम् / लब्ध्वा जात्यादियुक्तं कुलममलमलं चात्र पुण्यप्रभावाज्जैनेन्द्रेऽतः सुधर्मे सकलसुखकरे युज्यते नो प्रमादः भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका, सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् / तद्युष्माभिरिमां पुरातनशुभैरासाद्य सद्योऽनघां, सर्वज्ञप्रतिपादिते प्रतिदिनं धर्मे विधेयं मनः प्राप्तमिह मानुषत्वं, लब्ध्वा सद्गुरुसुसाधुसामग्रीम् / तदपि न करोषि धर्म, जीवक ! ननु वन्ध्यसे प्रकटंम् रागाद्यम्भः प्रमादव्यसनशतचलद्दीर्घकल्लोलकोड: (लोल:), क्रोधेावाडवाग्निर्जननमृतिमहानकचक्रौघरौद्रः / तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्णं, धर्मोऽसौ यानपात्रं जिनपतिगद्रितः सर्वदा संविधेयः सुमानुषत्वं पटुतेन्द्रियाणां, जैनी श्रुतिस्तत्र रतिश्च सम्यक् / अनुष्ठितौ शक्तिरपापपुंसां, सेवेति धर्मस्य निदानमेतत् कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः / साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति उत्पत्तिः सत्कुलादौ प्रकृतिकरणया व्याकुला चित्तवृत्ति ावृत्तिः पापयोगात्तदनु गुणकरः साधुसङ्गानुरागः / ..... . 187 // 5 // // 6 // // 7 // // // 8 // 8 //