________________ दत्तेऽध्वानमतीव निर्मलगुणं खेदं विहायात्मनो, जन्तुभ्यः स निहत्य कर्मनिचयं प्राप्नोति मोक्षं क्रमात् // 5 // धन्या देशाः स च नरपतिस्तत्पुरं ते जनौघा-, स्ता गेहिन्यः कृतविनुतयः सोऽयमद्धाविशेषः / यत्रैतेषां सदनविततौ साधवः पारणायां, गृह्णन्त्यन्नं व्रतशमधरा देहसंधारणार्थम् // 6 माता पिता कलाचार्य एतेषां ज्ञातयस्तथा / वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः // 7 // न सन्ति येषु देशेषु, साधवो धर्मदीपकाः / नामापि तेषु धर्मस्य, न ज्ञायेत कुतः क्रिया ? // 8 // क्रुद्धो गुरुर्वदति यानि वचांसि शिष्ये,, मध्याह्नसूर्यमिव तानि पतन्ति तस्य / तान्येव कालपरिणामसुखावहानि, पश्चाद्भवन्ति कमलाकरशीतलानि विपत्तिमुद्धन्ति तनोति पुण्यं, करोति कीर्ति कुगति रुणद्धि। ... किं किं न धत्ते शुभमाशु पुंसां, समागमो ज्ञानवता नरेण // 10 // शृण्वन्त्येव न केचिदत्र कुधियः केचिद्विहन्ति श्रुतं, शृण्वन्तोऽप्यवधीरयन्ति च परे न श्रद्दधत्यर्पितम्। . एवं कर्मवशादशुद्धमतयः संसारवारांनिधौ, लब्ध्वा धर्मगुरुं तरण्डकममी निन्दन्ति सीदन्ति च // 11 // 5 // उपदेशाष्टकम् // वन्द्या संसार भोभव्या प्राप्तरागासुमानुषम्। . कर्तुरुत्पत्तिदुष्प्रापमित्युपदेशाष्टकं वक्ष्ये 16