________________ न यान्ति दास्यं न दरिद्रभाव, न प्रेष्यतां नैव च हीनयोनिम्। न चापि वैकल्यमिहेन्द्रियाणां ये कारयन्तीह जिनस्य बिम्बम् // 5 // धन्या जिनायतनबिम्बविधापनानि, सङ्घस्य सद्गुणपुषः परिपूजनानि / कृत्वा सुखेन भवसप्तकमध्य एव, मुक्तिं व्रजन्ति सुदृशः किल निश्चयेन जिनबिम्बं जिनभवनं, जिनपूजां जिनमतं च यः कुर्यात् / तस्य नरामरशिवपदसुखानि करपल्लवस्थानि // 7 // ये कारयन्ति जिनमन्दिरमादरेण, बिम्बानि तत्र विविधानि विधापयन्ति संपूजयन्ति विधिना त्रिजगज्जयन्ति, ते पुण्यभाजनजना जनितप्रमोदाः एकोऽपि भुवनबन्धु-श्छिनत्ति भवबन्धनानि भक्तानाम् / दिनबन्धुरिव दिनादौ, कमलोदरबन्धनान्यलीनाम् // 9 // // 2 // 4 / / गुर्वष्टकम् // महासर्वसदामुक्ता, धन्या माता न सन्ति च। कुद्धो विपत्ति शृण्वन्त्ये-वेति गुर्वष्टकं पठ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः / सामायिकस्था धर्मोप-देशका गुरवो मताः सर्वत्रापि च सम्भवन्ति बहवः पापोपदेशप्रदा, लोकोऽपि स्वयमेव पापकरणे गाढं निबद्धाग्रहः / के ते सत्त्वहितोपदेशविशदव्यापारिणः साधवो, यत्संसर्गनिसर्गनष्टतमसो निर्वान्त्यमी देहिनः सदागमाभ्यासविशुद्धबोधाः, शुभोपदेशाः क्षतमोहयोधाः / प्रणामनि शितपापपङ्का, उपासनीया गुरवो विशङ्काः मुक्त्वा कीर्तियशोऽभिमानगुरुतालोभादिकं कारणं, यः सर्वज्ञवचोविचारचतुरः सत्त्वानुकम्पापरः / 15 // 3 // // 4 //