________________ धर्मे स्थैर्य स्यात् कस्यचिच्चञ्चलस्य प्रौढं वात्सल्यं बृंहणा सद्गुणानाम् दानेन श्लाघा शासनस्यातिगुर्वी दातृणामित्थं दर्शनाचारशुद्धिः // 101 औदार्यं वयं पुण्यदाक्षिण्यमन्यत् संशुद्धो बोधः पातकात् स्याज्जुगुप्सा आख्यातं मुख्यं सिद्धधर्मस्य लिङ्ग लोकप्रेयस्त्वं दातुरेवोपपन्नम् तीर्थोन्नतिः परिणतिश्च परोपकारे ज्ञानादिनिर्मलगुणावलिकाभिवृद्धिः / वित्तादिवस्तुविषये च विनाशबुद्धिः सम्पादिता भवति दानवताऽऽत्मशुद्धिः सीदन्ति पश्यतां येषां शक्तानामपि साधवः / न धर्मो लौकिकोऽप्येषां दूरे लोकोत्तरः स्थितः // 104 // सीदन्तो यतयो यदप्यनुचितं किञ्चिज्जलान्नादिकं स्वीकुर्वन्ति विशिष्टशक्तिविकला: कालादिदोषादहो / मालिन्यं रचयन्ति यज्जिनमतस्यास्थानशय्यादिना श्राद्धानामिदमेति दूषणपदं शक्तावुपेक्षाकृताम् // 105 // अपात्रबुद्धि ये साधौ लिङ्गिमात्रेऽपि कुर्वते। . नूनं न पात्रताऽस्त्येषां यथात्मनि तथा परे . // 106 // ........ परं पात्रं सर्वमुक्तं जिनागमे / दानं तु निर्गुणेभ्योऽपि दातव्यमनुकम्पया // 107 // आहारवस्त्रपात्रादिदाने पात्रपरीक्षणम् / . कुर्वन्तस्ते न लज्जन्ते दरिद्राः क्षुद्रचेतसः // 108 // सर्वज्ञो हृदि वाचि तस्य वचनं काये प्रणामादिकं प्रारम्भोऽपि च चैत्यकृत्यविषयः पापाज्जुगुप्सा परा / होनानामपि सन्त्यमी शुभदृशां येषां गुणा लिङ्गिनां ते मन्ये जगतोऽपि पात्रमसमं शेषं किमन्विष्यते // 109 // चतुर्दशाद् गुणस्थानात् पूर्वे सर्वेऽप्यपेक्षया / निर्गुणा.......................... दुत्तरे कमात् // 110 // 189