________________ किञ्चोपदेशेन विनाऽपि भक्तः शक्तश्च दत्ते हि यथा कथञ्चित् / मिथ्याविचारं च करोत्यभक्तस्तुच्छस्वभावः स्वमदानुकामः // 92 // भक्तिव्यक्तिः कथमिव भवेदागतानां यतीनां यद्याहारं न पचति गृही सुन्दरं सादरं च / अन्यस्यापि स्वजनसुहृदः कृत्यमौचित्यमित्थं . गौरव्याणां किमुत जगत; साधुसाधर्मिकाणाम् // 93 // नामापि साधुलोकानामालोकादिविशेषतः / कोऽपि पुण्यैरवाप्नोति दानादि तु किमुच्यते . // 94 // एष्टव्यमित्थमेवेदं मध्यस्थैः सूक्ष्मदृष्टिभिः / विधातुं बुद्ध्यते श्राद्धैर्वन्दनान्यपि नान्यथा // 95 // प्रस्थास्नोः पथि वन्दारोविचित्रैर्यानवाहनैः / महर्द्धिकस्य श्राद्धस्य संरम्भारम्भसम्भवात् - // 96 // न चेयं क्वापि सिद्धान्ते निषिद्धा किन्तु साधिता। स्थाने स्थानेऽनवद्याया वन्दनाया निवेदनात् .. // 97 // आरम्भान्तरमन्तरे गुरुतरं गेहाद्यसद्गोचरं / मुञ्चत्यत्र समग्रमग्रिमगुणग्रामं मुनेर्मन्यते / मान्यं सोऽन्यगुणान्तरं च लभते छिन्द्यात् क्वचित् संशयं दुष्टा तेन न वन्दना यदि वदेद् दाने समाधिः समः (?) // 98 // वन्दनादिगुणानेतानन्यूनानभिवाञ्छता / दानं विशेषतो देयं यत् परस्थानकारणम् // 99 // मुनीनां ज्ञानादौ भवति बहुमानः प्रकटितस्तदन्येषां मार्गो जिनवचनभक्तिः परहितम् . धनेऽनास्थाभावो गुरुपुरुषकृत्यानुकरणं कियन्तः कथ्यन्ते वितरणगुणाः सिद्ध्यनुगुणाः // 100 // 188