________________ साधवो दुःषमाकाले कुशीलबकुशादयः / / प्रायः शबलचारित्राः सातिचायः प्रमादिनः // 111 // सगुणो निर्गुणोऽपि स्यान्निर्गुणो गुणवानपि / शक्यते न च निश्चेतुं मान्यः सर्वोऽप्यतो मुनिः . // 112 // गुणानुरागितैवं स्याद् दर्शनाभ्युन्नतिः परा। .. लोकेऽत्र पात्रता पुंसां पस्त्र कुशलं परम् // 113 // -दु-ता गुणापेक्षा दोषोपेक्षा दयालुता। . उदारतोपकारेच्छा विधेया सुधिया सदा - // 114 // एकं पापं देयभावेऽप्यदानं साधोरन्यन्निन्दया निर्निमित्तम् / गृह्णन्त्युच्चैः क्रूरचिता वराका पापैः पापा नैव तृप्यन्ति लोकाः 115 ख्यातं मुख्यं जैनधर्मे प्रदानं श्राद्धस्योक्तं द्वादशं तद् व्रतं च / दत्तं पूज्यैः कीर्तितं चागमज्ञैः युक्त्या युक्तं दीयतां निर्विवादम् 116 कञ्चिद् दायकमुद्दिश्य कञ्चिदुद्दिश्य याचकम् / देयं च किञ्चिदुद्दिश्य निषिद्धं चैतदागमे // 117 // ..........रभ्य साधुभ्योऽप्यशनादिकम् / न दद्यात् पापिनोऽन्यापि दानमेनःप्रवर्तनम् // 118 // कन्याफलं यथोद्दिश्य वापीकूपसरांसि.. ..............हलादिकम् // 119 // उत्सर्गेणापवादेन निश्चयाव्यवहारतः / क्षेत्रपात्राद्यपेक्षं च सूत्रं योज्यं जिनागमे // 120 // न किञ्चि... .............. / गुणदोषौ तु सञ्चिन्त्य कृत्याकृत्यव्यवस्थितिः // 121 // विधीयते गुणः शुद्धः ईषद्दोषो महागुणः / // 122 // 180