________________ // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // भूयांसोऽन्येऽपि कथ्यन्ते पुण्यभाजो जिनागमे। कृत्वा कृत्यानि साधूनां सम्प्राप्ताः सम्पदं पराम् / ग्रहीतुं नाम केनापि भागधेयैः परैः परम् / साधूनां प्राप्यते दातुं भक्त्या भक्तादि किं पुनः यस्यानपानैः सन्तुष्टाः साधवः साधयन्त्यमी। . स्वाध्यायादिक्रियां साध्वीं तस्य पुण्यं तदुद्भवम् ब्रूषेऽथ व्याधिबाधायामध्याहृत्य विधीयते / साधूनामौषधान्नादि शेषकाले तु दुष्यति किं व्याधिबाधाः साधूनां गौरव्या यदि वां गुणाः / गुणाश्चेद् भक्तपानादि दातव्यं व्याधिना विना बुभुक्षा च महाव्याधिः स्वाध्यायध्यानबाधिनी / आर्तप्रवर्तनी भीमा शमनीयाऽशनादिना अथ न्यायागतं कल्प्यं देयमुक्तं न चापरम् / युक्तं तदुक्तं बोद्धव्यं मध्यस्थैः शुद्धबुद्धिभिः अन्यायेनाऽऽगतं दत्तमन्यदीयं हि निष्फलम् / तेन स्वकीयं दातव्यं स्वामिनेति निवेदितम् / कल्प्यं योग्यं तु साधूनां धर्मकायोपकारकम् / वितीर्णमपि नायोग्यं गृह्णन्ति यतयो यतः यद्वा न्यायागतं कल्प्यं देयमेवेति कथ्यते / लोभेनासौ.......... नमदानं वा निवार्यते तथा च कल्प्ये सत्येव कश्चिद् दानाय दुर्विधः। विधत्ते भिन्नमन्नादि सोऽमुना प्रतिषिध्यते विधिरौत्सर्गिको वाऽयमुत्तमं दानमीदृशम् / . अन्यत्र मध्यमादि स्यान्न तु दोषाय जायते 186 // 74 // // 75 // // 76 // // 77 // . // 78 // // 79 //