________________ देवादिकृत्यरहिणो गृहिणः प्रहीणाः शोच्याः सतामवमताः पशुभिः समानाः / जन्मान्तरे गुरुनिरन्तरदुःखदूना दीना न किञ्चन कदापि शुभं लभन्ते // 58 // एवं कृत्वा कारयित्वा यतीनामाहाराद्यं यच्छतां नास्ति दोषः / पुण्यस्कन्धः केवलं गेहभाजां सञ्जायेत स्वर्गनिर्वाणहेतुः // 59 // प्रोक्तस्तुल्यः क्वापि यः कर्मबन्धः सारम्भत्वात् सर्वदाऽस्त्येव तेषाम् / इत्थं चेदं प्रोक्तयुक्त्यावसेयं सिद्धान्तार्थः शुद्धबुद्ध्याऽवबोध्यः 60 इष्यते दोषलेशोऽपि प्रभूतगुणसिद्धये / यथा दष्टाङ्गुलीच्छेदच्छेकैर्जीवितहेतवे // 61 // कृष्यादिकर्म बहुजङ्गमजन्तुघाति कुर्वन्ति ये गृहपरिग्रहभोगसक्ताः धर्माय रन्धनकृतां किल पापमेषामेवं वदन्नपि न लज्जिंत एव दृष्टः।। 62 // एवंविधस्याप्यबुधस्य वाक्यं सिद्धान्तबाह्यं बहुबाधकं यत् / दृढादृढं श्रद्दधते कदाः पापे रमन्ते मतयः सुखेन // 63 // नाभेयादिभिरन्यजन्मनि मुने व्यस्य लक्षैस्त्रिभिः / तैलाभ्यञ्जनतश्चलत्कृमिकुलं कुष्ठाकुलस्याकुलम् / सञ्चार्यान्यकलेवरे वरतरो गोशीर्षलेपः कृतो भक्त्यावेशवशादसौ शिवकरी -गुर्वी चिकित्सा कृता // 64 // ततस्ततं सुखं भुक्त्वा निरन्तरमनुत्तरम्। . लेभे शिवमहो ! साधुभक्तिः कल्याणकारिणी // 65 // वह्निप्लुष्टं कौञ्चिकश्चोज्जयिन्यां श्राद्धः साधु साधुतैलादिपाकैः / चित्राकारैश्चारुभिश्चोपचारैः कृत्वा कल्पं किं न कल्याणमाप // 66 // श्रद्धालुः किं श्राविका न श्रुता सा श्रीसिद्धान्ते विश्रुता सुश्रुतानाम् / नानारूपैरौषधैः संस्कृतान्नं दत्त्वा साधुं याऽर्शसं प्राचिकित्सत् / / 67 // . . . 185