________________ 53 // चेतः काञ्चननिर्वृतिं च लभते प्रायोऽर्थलाभोऽपरः पापारम्भपरादनर्थविरतिश्चेति प्रतीता भिदा // 50 // न मिथ्यात्वात् प्रमादाद्वा कषायाद्वा प्रवर्तते / श्राद्धो द्रव्यस्तवे तेन तस्य बद्धो(न्धो)ऽस्ति नाशुभः // 51 // शुभः शुभानुबन्धी तु बन्धच्छेदाय जायते / पारम्पर्येण यो बन्धः स प्रबन्धाद् विधीयते // 52 // द्रव्यस्तवे भवति यद्यपि कोऽपि दोषः / कूपोपमानकथितोऽतिलघुस्तथापि / कृत्यो गुणाय महते स न किं चिकित्साक्लेशो गदापगमनाय बुधैर्विधेयः लोकोत्तरे गुणगणे बहुमानबुद्धिः शुद्धिः परा स्वमनसो मनुजोत्तमत्वम् / स्याद् धर्मसिद्धिरखिले जगति प्रसिद्धिः सिद्धिः क्रमेण जिनपूजनतो जनानाम् // 54 // श्रीवर्द्धमानमुनिपुङ्गवपादपूजा- . सम्पादनापरिणता वरसिन्दुवारैः / / मृत्वा गताऽमरगतौ किल दुर्गताऽलं स्त्रीत्यादिपूजनफलं समयप्रसिद्धम् // 55 // किञ्चाऽऽगमो विधिनिषेधविधायकोऽत्र पारत्रिके खलु विधौ सुधियां प्रमाणम् / द्रव्यस्तवेऽस्ति स च नास्ति च युक्तिबाधा संसाधिकाऽधिकमतेः क्रमते च युक्तिः // 56 // सम्प्राप्य ये नरभवं जिनशासनं च संसारसागरविलङ्घनयानपात्रम् / द्रव्यस्तवं परिहरन्ति जडा जनास्ते चिन्तामणि समधिगम्य परित्यजन्ति 184