________________ // 44 // आरम्भश्चेत् पातकार्थेऽपि कृत्यो धर्मायासौ संविधेयः सुधीभिः। चौराणां चेद्धन्त वोढव्यमास्ते बाढं व्यूढं तद्वरं स्वामिनो हि // 41 // पापारम्भविवर्जनं गुरुयशोराशेः शुभस्यार्जनं गेहाद्याग्रहनिग्रहेण मनसो निःसङ्गता सङ्गतिः / कल्याणाभिनिवेशिता तनुमतां सन्मार्गसन्दर्शनं धर्मारम्भवतां भवन्ति भविनामित्यादयः सद्गुणाः // 42 // स्थानोपयोगात् साफल्यं भवस्य विभवस्य च / परः परोपकारः स्याद् धर्मतीर्थप्रवर्तनात् // 43 // संसारसागरे घोरे देहभाजां निमज्जताम् / तीर्थं श्रीतीर्थनाथस्य यानपात्रमनुत्तमम् भक्तिश्चेज्जिनशासने जिनपतौ सञ्जायते निश्चला तत्कृत्येषु बलात् प्रवृत्तिरतुला सम्पद्यते देहिनाम् / / भक्तः किङ्करतां करोति दिशति स्वं स्वापतेयं गुणानादत्ते पिदधाति दूषणगणं प्रापपानपि प्रोज्झति // 45 // चैत्यस्य कृत्यानि विलोकयन्तो ये पापभाजो यदि वा यतीनाम् / कुर्वन्त्युपेक्षामपि शक्तियुक्ता मिथ्यादृशस्ते जिनभक्तिमुक्ताः // 46 // प्रारम्भोऽप्येष पुण्याय देवाद्युद्देशतः कृतः। सामण्यन्तरपातित्वाज्जीवनाय विषं यथा .. // 47 // भिन्नहेतुक एवायं भिन्नात्मा भिन्नगोचरः। . . भिन्नानुबन्धस्तेन स्यात् पुण्यबन्धनिबन्धनम् / लोभादिहेतुक: पापारम्भो गेहादिगोचरः।। पापानुबन्धी सन्त्याज्यः कार्योऽन्यः पुण्यसाधनः // 49 // धर्मारम्भरतस्य रज्यति जनः कीर्तिः परा जायते राजानोऽनुगुणा भवन्ति गुणिनो गच्छन्ति साहाय्यकम् / जाण्झात . // 48 // 193