________________ अन्नादिदानेऽथ भवेदवश्यं प्रारम्भतः प्राणिगणोपमर्दः / तस्मानिषिद्धं ननु नेति युक्तं यूकाभयानो परिधानहानम् // 29 // पापाय हिंसेति निवारणीया दानं तु धर्माय ततो विधेयम् / दुष्टा दशानामुरगादिदष्टा यैवाङ्गुली सा खलु कर्तनीया // 30 // कृष्यादि कुर्वन्ति कुटुम्बहेतोः पापानि चान्यानि समाचरन्ति / देवादिपूजादि विवर्जयन्ति हिंसां भणित्वेति कथं न मूढाः // 31 // सन्त्यज्य पूज्यं जननीजनादि ये दुष्टचेटीमिह चेष्टयन्ति। तेषां भवन्तोऽपि भवन्ति तुल्या सक्ता गृहे देवगुरूंस्त्यजन्तः // 32 // अथापि नारम्भवतोऽपि युक्तं प्रारम्भणं धर्मनिमित्तमत्र / द्रव्यस्तवो हन्त गतोऽस्तमेवं ध्वस्तः समस्तो गृहमेधिधर्मः // 33 // द्रव्यस्तवप्रधानो धर्मो गृहमेधिनां यतोऽभिदधे / द्रव्यस्तवस्य विरहे भवत्यभावस्ततस्तस्य // 34 // युक्त्यागमाननुगतं सङ्गतमुपगन्तुमीदृशं न सताम् / द्रव्यस्तवभावस्तवरूपो धर्मो जिनैरुक्तः // 35 // जन्माभिषेकादिमहं जिनानां व्याख्यानधात्रीरचनां च चित्राम् / . कुर्वन्ति सर्वे त्रिदशाधिपाद्या नन्दीश्रगदी महिमानमुच्चैः // 36 // अष्टापदादौ भरतादिभूपैर्वेश्मानि बिम्बानि च कारितानि / दशार्णभद्रप्रमुखै मुख्यैः पूजा जिनानां विहिता हिताश्च // 37 // साधर्मिकेभ्यो भरतेन दत्तं भोज्यादि भक्त्या विविधं विधाय / मोक्षाय निःशेषमभूदमीषामेतज्जिनोक्तं क्रियमाणमेव // 38 // ग्रामं क्षेत्रं वाटिकां वापिकाढ्यां गेहं हट्टं देवदेवाय भक्त्या। दत्त्वा केचित् पालयित्वा तथान्ये धन्या सिद्धाः साधुसिद्धान्तसिद्धाः आरम्भन्ते सर्वकार्याण्यनार्या भार्यादीनां सर्वथा सर्वदा ये / देवादीनां नैव दीनास्तु मन्ये धर्मे द्वेषो निश्चितः कश्चिदेषाम् // 40 // 182