________________ अयुक्ते न प्रवर्तन्ते मर्त्यनाथास्तथाविधाः / रागद्वेषप्रमादादिविमुक्ता मुक्तिसम्मुखाः // 18 // नाप्युत्तरारम्भभवोऽपि दोषो दातुर्भवेनिश्चितमत्र कश्चित् / परोपकाराय दयापरस्य प्रवर्तमानस्य शुभाशयस्य // 19 // अन्यथा हि महादानं महारम्भनिबन्धनम् / न दद्यु/धना धन्या विकीर्यानिधनं धनम् // 20 // एष्टव्यमित्थमेवेदं गुर्वादेरपि नान्यथा / अन्नादि देयं व्याध्यादेः कदाचित् स्याद्विधायकम् // 21 // प्रत्तं प्रबन्धेन गिरा गुरूणां सार्मिकेभ्यो भरतेन दानम् / अन्यैश्च धन्यैर्धनसार्थवाहमुख्यैः प्रभूतैः समयप्रसिद्धैः // 22 // कल्याणहेतुस्तदभूदमीषां नानर्थसम्पादि निरर्थकं वा। तीर्थाधिनाथप्रथमानदानं दातुः शिवस्य प्रथितं निदानम् // 23 / / मुख्यं च धर्मस्य चतुर्विधस्य प्रोक्तं जिनेन्द्रैः समये समस्ते। तीर्थान्तरीयैः कथितं विशिष्टं दानं जनानां नितरामभीष्टम् // 24 / / बाह्यं नयं च बाह्यानां कारणं दानवारणे / अमीषां दृश्यते नूनं क्लिष्टादृष्टं भविष्यति // 25 // स्वयं च सर्वं गृह्णन्ति गृद्धा गृध्रा इवाऽऽमिषम् / कयापि भङ्ग्या निर्भाग्या भङ्गमन्यस्य कुर्वते // 26 // परो व्यामोह्यते येन गम्यते दुर्गतिः स्वयम्। / क्रियते शासनोच्छेदो धिगिदृक् कुल्ककौशलम् विज्ञप्तिः सा भवतु भविनां सा च वाचां प्रवृत्तिश्वेतोवृत्तिः कलिलविकला सैव सा कायशक्तिः / आज्ञा सैव प्रभवतु यया शक्यते संविधातुं मोहापोह: स्वपरमनसोः शासनाभ्युन्नतिश्च // 28 // 181 // 27 //