________________ // 8 // // 9 // // 10 // // 11 // // 12 // दिशन्त्येते मोहान खलु निखिलेभ्यः स्वविभवं [भवन्तो विज्ञानैस्त्रिभिरपतितैस्तीर्थपतयः / भवे पूर्वेऽभ्यस्तैरनुगतधियो नाऽप्यकुशलं प्रवृत्तेः कर्मास्याः किमपि कथितं कारणमिह किन्तु दानान्तरायस्य कर्मणोऽपचये.सति / क्षायोपशमिके भावे दानमुक्तं जिनागमे अथापि तीर्थकृन्नामनामकर्मोदयादयम् / दयाकरो महासत्त्वः सर्वसत्त्वोपकारकः / प्रदेशने प्रवर्तेत देशनायामिवानिशम् / प्रशस्यते तथापीदं देशनेव प्रदेशनम् / नाशुभस्य फलं दानं निदानं वा निदर्शितम् / कर्मणः क्वापि सिद्धान्ते दीयमानं विधानंतः शुभे कृत्ये कृते पूर्वैः सर्वैः सर्वार्थवेदिभिः / प्रवर्तितव्यमन्येन मन्ये न्यायः सतां मतः वचोऽप्यशेषमेतेषां प्रमाणीक्रियते बुधैः / / विशिष्टा किं पुनश्चेष्टा दृष्टादृष्टाविरोधिनी यथा तपस्तथा शीलं तीर्थनाथैरनुष्ठितम् / / तथा दानमपि श्रेष्ठमनुष्ठेयमनुष्ठितम् निष्क्रान्तोऽपि त्रिभुवनविभुर्वर्धमानाभिधानो वस्त्रस्यार्द्ध सदयहृदयोऽतुल्यमूल्यं द्विजाय / यच्छनेवं कथयति सदा निर्गुणस्यापि दातुं युक्तं शक्त्या किमुत गुणिनां साधुसार्मिकाणाम् दानं निदानं यदि पातकानां सम्पद्यते नैव तदा मुनीन्द्रः। . दद्यादनिन्द्यो निरवद्यविद्याचतुष्टयाध्यासितसच्चरित्रः // 13 // // 14 // // 15 // // 18 // 17 // 180